📚 गीताविवृतिः (राघवेन्द्रतीर्थः) - अध्यायः ६
Page 1
Download 📥
________________ श्रीभगवानुवाच अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६.१॥ ॥ ॐ ॥ 'बुद्धिर्योगे त्विमां श्रुणु (२.३९) इति योगवचनं प्रतिज्ञातं द्वितीये । स च योग उत्तरषट्के वक्ष्यमाणभगवज्ज्ञानं प्रति उपायः । स च द्विविधः । कर्मयोगो ध्यानयोगश्चेति । तत्र कर्मयोगो ज्ञानं प्रति बहिरङ्गोपायत्वात् 'त्रैगुण्यविषया वेद' (२.४५) इत्यादिना द्वितीये सङ्क्षेपेण तृतीयाध्यायादावतीतग्रंथे विस्तरेण च पूर्वं निरूपितोऽधुना कर्मयोगसाध्यत्वाद्वक्ष्यमाणज्ञानांतरङ्ग- साधनत्वाच्चावसरप्राप्तं समाधियोगं 'स्पर्शान्' (५.२७) इत्यादिना पूर्वाध्यायांते सङ्क्षेपेण प्रकृतं विस्तरेणास्मन्नध्याये वक्तिः । आसनादीनामङ्गानां वक्ष्यमाणत्वेऽपि तेषां ध्यानार्थत्वेन ध्यानस्यैव प्राधान्यात् । 'उद्धरेदात्मनात्मानमित्यादिना' ध्यानयोगं विधातुं तत्र ध्याने संन्यासयोगयुक्त एवाधिकारीति ज्ञापनाय कामादिवर्जनरूपसंन्यासं ईश्वराराधनरूपस्वकर्मानुष्ठानलक्षणयोगं चाह ॥ अनाश्रित इति । यः कर्मफलमनाश्रितः कार्यं स्वस्ववर्णाश्रमोचिततया कर्तव्यं कर्म करोति । संन्यासी योगी च स एव च ध्यानाधिकारीति भावः । आह्वनीयाद्यग्नित्यागेन अग्निहोत्रादिक्रियात्यागेन च निःसङ्गतया वर्तमान एव ध्यानाधिकारीति सांख्यमतमपाकरोति ॥ नेति । निरग्निरक्रियश्च संन्यासी योगी च नेत्यर्थः । यतेरपि 'दैवमेवापरे यज्ञं' (४.२५) इत्यादिनाऽग्निक्रिययो- रुक्तत्वात्संन्यासाश्रमस्वीकारकाले पूर्वाश्रमस्वीकृताग्नेरात्मनि समारोपणाच्च सोऽपि संन्यासी योगी च भवत्येवेति भावः ॥ ६.१॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पों योगी भवति कश्चन ॥६.२॥ 'स संन्यासी च योगी चेत्युक्त्या प्राप्तां तयोरत्यंतभेदशङ्कां निरसितुं अमुख्ययोगापेक्षया पृथगुक्तोऽपि संन्यासो मुख्ययोगांतर्भूत इत्याह ॥ यमिति ॥ 'ज्ञेयः स नित्यसंन्यासी' त्यादिनोक्तप्रकारेण यं कामक्रोधादिवर्जनरूपं संन्यासं योगं मुख्ययोगं ज्ञानोपायभूतकामादिवर्जनविशिष्टनिवृत्तकर्मानुष्ठान- रूपयोगांतर्भूतं विद्धि जानीहि । हे पाण्डव कुतः कश्चन कोऽपि १